Mishra4u
Health tips
Pooja or Ansthan Ke liye call kaare 8949868434. Pt. Raja Mishra se sampark kaare
अग्रे कुरूनाम् अथ पाण्डवानां दुःशासनेनाहृत वस्त्रकेशा ।कृष्णा तदाक्रोशदनन्यनाथ गोविंद दामोदर माधवेति ॥श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति ॥विक्रेतुकाम अखिल गोपकन्या मुरारी पदार्पित चित्तवृत्त्यः ।दध्योदकं मोहवसादवोचद् गोविंद दामोदर माधवेति ॥जगधोय दत्तो नवनीत पिण्डः गृहे यशोदा विचिकित्सयानि ।उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥जिह्वे रसाग्रे मधुरा प्रिया त्वं सत्यं हितं त्वं परमं वदामि ।अवर्णयेत मधुराक्षराणि गोविंद दामोदर माधवेति ॥गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण ।गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।देहावसाने त्विदमेव जप्यं गोविंद दामोदर माधवेति ॥वक्तुं समर्थोपि नवक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ।जिह्वे पिबस्वमृतमेतदेव गोविंद दामोदर माधवेति ॥